वांछित मन्त्र चुनें

स सु॒क्रतू॒ रणि॑ता॒ यः सु॒तेष्वनु॑त्तमन्यु॒र्यो अहे॑व रे॒वान् । य एक॒ इन्नर्यपां॑सि॒ कर्ता॒ स वृ॑त्र॒हा प्रतीद॒न्यमा॑हुः ॥

अंग्रेज़ी लिप्यंतरण

sa sukratū raṇitā yaḥ suteṣv anuttamanyur yo aheva revān | ya eka in nary apāṁsi kartā sa vṛtrahā pratīd anyam āhuḥ ||

पद पाठ

सः । सु॒ऽक्रतुः॑ । रणि॑ता । यः । सु॒तेषु॑ । अनु॑त्तऽमन्युः । यः । अहा॑ऽइव । रे॒वान् । यः । एकः॑ । इत् । नरि॑ । अपां॑सि । कर्ता॑ । सः । वृ॒त्र॒ऽहा । प्रति॑ । इत् । अ॒न्यम् । आ॒हुः॒ ॥ ८.९६.१९

ऋग्वेद » मण्डल:8» सूक्त:96» मन्त्र:19 | अष्टक:6» अध्याय:6» वर्ग:35» मन्त्र:4 | मण्डल:8» अनुवाक:10» मन्त्र:19